पञ्चप्रयागाः

भारते उत्तरखण्डप्रान्ते हिमालये अलकनन्दानद्याः सङ्गमाः पञ्चप्रयागाः। ते च विष्णुप्रयागः नन्दप्रयागः कर्णप्रयागः रुद्रप्रयागः देवप्रयागः। तेषु विष्णुप्रयागः प्रथमः। अलकनन्दायाः च धौलिगङ्गायाः सङ्गमः। ततः अलकनन्दायाः नन्दाकिन्या सह सङ्गमः नन्दप्रयागे। एवं पिण्डर्नद्याः कर्णप्रयागे रुद्रप्रयागे मन्दाकिन्याः देवप्रयागे भगीरथ्याः च अलकनन्दया सह सङ्गमः।

विष्णुप्रयागः

Vishnuprayag

जोशिमठात् बदरीनाथमार्गमध्ये स्थितः विष्णुप्रयागः।

नन्दप्रयागः

अलकनन्दायाः द्वितीयः प्रयागः नन्दप्रयागः। नन्दाकिन्या सह सङ्गमः। नन्द इति राज्ञा यज्ञमत्र क्रुतमासीत् इति नन्दप्रयागः इत्युच्यन्ते। श्रीकृष्णस्य पालकस्य नन्दस्य नाम्नः नन्दप्रयागः इत्यपि कथ्यन्ते।

कर्णप्रयागः

पिन्डर्न्द्याः च अलकनान्दायाः सङ्गमः कर्णप्रयागे। कर्णेन अत्र सूर्याय तपोऽतपत् इति कर्णप्रयागः।

रुद्रप्रयागः

अलकनन्दा च मन्दाकिनी रुद्रप्र्यागे सङ्गमिते।

देवप्रयागः

देवप्रयागः भगीरथ्याः च अलकनन्दायाः सङ्गमः। अस्मिन् पुण्यक्षेत्रे रघुनाथमन्दिरम् अस्ति। आदिशङ्कराचार्यैः स्थापितं मन्दिरम्।

देशं भ्रम कोशं पठ

देशं भ्रम कोशं पठ इति कन्नडभाषायां (ದೇಶ ಸುತ್ತು ಕೋಶ ಓದು) लोकोक्तिः अस्ति। बाल्ये प्राथमिकशालायां मया अयं लोकोक्तिः श्रुतः। जीवने कोशं विश्वकोशं वा पठनीयम् अपि च प्रवासाः कर्तव्याः अर्थः। यतः स्वस्य ज्ञानं वर्धते। केवलं कोशपठनेन सम्पूर्णतया न ज्ञातुं शक्यते अनुभवस्य अभावात्। तस्मात् प्रवासः यात्रा च क्रियते चेत् अनुभवः अपि प्राप्यते। शालायां पठितं ग्रीष्मकाले दिनं दीर्घं भवति अपि च शैत्यकाले रात्रिः दीर्घा भवतीति। परन्तु भारते तदपि कर्णाटके सुलभतया न ग्राह्यः अयम् विषयः। यदा अहम् यूरोप् च उत्तर-अमेरिका गतवान् तदा मया स्पष्टतया अनुभूतम् ग्रीष्मकाले सूर्यास्तः नववादने भवति दिनं दीर्घं इति।

‘देशं भ्रम कोशं पठ’ इति वाक्यात् प्रवासे बाल्यकाले एव प्रेरितः अभवम्। परन्तु कर्तुं न शक्तवान् अनानुकूलात्। यदा हि धनार्जनम् आरब्धवान् ततः प्रवासान् कुर्वन्नस्मि। तेषां प्रवासानां किञ्चित अत्र लिखितुं प्रयासः करोमि।