देशं भ्रम कोशं पठ इति कन्नडभाषायां (ದೇಶ ಸುತ್ತು ಕೋಶ ಓದು) लोकोक्तिः अस्ति। बाल्ये प्राथमिकशालायां मया अयं लोकोक्तिः श्रुतः। जीवने कोशं विश्वकोशं वा पठनीयम् अपि च प्रवासाः कर्तव्याः अर्थः। यतः स्वस्य ज्ञानं वर्धते। केवलं कोशपठनेन सम्पूर्णतया न ज्ञातुं शक्यते अनुभवस्य अभावात्। तस्मात् प्रवासः यात्रा च क्रियते चेत् अनुभवः अपि प्राप्यते। शालायां पठितं ग्रीष्मकाले दिनं दीर्घं भवति अपि च शैत्यकाले रात्रिः दीर्घा भवतीति। परन्तु भारते तदपि कर्णाटके सुलभतया न ग्राह्यः अयम् विषयः। यदा अहम् यूरोप् च उत्तर-अमेरिका गतवान् तदा मया स्पष्टतया अनुभूतम् ग्रीष्मकाले सूर्यास्तः नववादने भवति दिनं दीर्घं इति।
‘देशं भ्रम कोशं पठ’ इति वाक्यात् प्रवासे बाल्यकाले एव प्रेरितः अभवम्। परन्तु कर्तुं न शक्तवान् अनानुकूलात्। यदा हि धनार्जनम् आरब्धवान् ततः प्रवासान् कुर्वन्नस्मि। तेषां प्रवासानां किञ्चित अत्र लिखितुं प्रयासः करोमि।